वांछित मन्त्र चुनें

त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्य॑: सोम पवमान पूयसे । त्वामु॒शिज॑: प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥

अंग्रेज़ी लिप्यंतरण

tvam pavitre rajaso vidharmaṇi devebhyaḥ soma pavamāna pūyase | tvām uśijaḥ prathamā agṛbhṇata tubhyemā viśvā bhuvanāni yemire ||

पद पाठ

त्वम् । प॒वित्रे॑ । रज॑सः । विऽध॑र्मणि । दे॒वेभ्यः॑ । सो॒म॒ । प॒व॒मा॒न॒ । पू॒य॒से॒ । त्वाम् । उ॒शिजः॑ । प्र॒थ॒माः । अ॒गृ॒भ्ण॒त॒ । तुभ्य॑ । इ॒मा । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥ ९.८६.३०

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:30 | अष्टक:7» अध्याय:3» वर्ग:17» मन्त्र:5 | मण्डल:9» अनुवाक:5» मन्त्र:30


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्वं) तुम (पवित्रे विधर्म्मणि) अपने पवित्र स्वरूप में (देवेभ्यो रजसः) दिव्यगुणयुक्त रजोगुण के परमाणुओं से इस संसार को उत्पन्न करते हो। (सोम) हे परमात्मन् ! (पवमानः) सबको पवित्र करनेवाले (पूयसे) तुम पवित्र करते हो। (त्वामुशिजः) तुमको विज्ञानी लोगों ने (प्रथमाः) पहले (अगृभ्णत) ग्रहण किया। (तुभ्य इमाः) तुम्हारे लिये ये (विश्वा, भुवनानि) सम्पूर्ण लोक-लोकान्तर (येमिरे) अपने आपको समर्पित करते हैं ॥३०॥
भावार्थभाषाः - परमात्मा सम्पूर्ण लोक-लोकान्तरों की उत्पत्ति का कर्ता है और उसी की विभूति को सब लोक-लोकान्तर प्रदीप्त कर रहे हैं ॥३०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्वं) पूर्वोक्तस्त्वं (पवित्रे, विधर्मणि) स्वपूतस्वरूपे (देवेभ्यः, रजसः) दिव्यगुणयुक्तरजोगुणस्य परमाणुभिरिदञ्जगदुत्पादयसि। (सोम) हे परमात्मन् ! (पवमान) निखिलपवित्रकर्तः त्वं (पूयसे) पवित्रयसि। (त्वां, उशिजः) पूर्वोक्तं त्वां विज्ञानिनः (प्रथमाः) प्रथमं (अगृभ्णत) अग्रहीषुः। (तुभ्य, इमाः) तुभ्यमिमानि (विश्वा, भुवनानि) निखिललोकलोकान्तराणि (येमिरे) आत्मानं समर्पयन्ति ॥३०॥